|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.85. अध्यायः 085
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति अमात्यलक्षणादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-85-0x(5564)(68121)
कथंस्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः।
प्रैति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम्॥ 12-85-1(68122)
भीष्म उवाच। 12-85-2x(5565)
व्यवहारेण शुद्धेन प्रजापालनतत्परः।
प्राप्य धर्मं च कीर्ति च लोकानाप्नोत्यसौ शुचिः॥ 12-85-2(68123)
युधिष्ठिर उवाच। 12-85-3x(5566)
कीदृशव्यवहारं तु कैश्च व्यवहरेन्नृपः।
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि॥ 12-85-3(68124)
ये चैव पूर्वकथिता गुणास्ते पुरुषं प्रति।
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः॥ 12-85-4(68125)
भीष्म उवाच। 12-85-5x(5567)
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन्।
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः॥ 12-85-5(68126)
किंतु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम्।
वक्ष्यामि तु यथाऽमात्यान्यादृशांश्च करिष्यसि॥ 12-85-6(68127)
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन्।
क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः॥ 12-85-7(68128)
वैश्यान्वित्तेन संपन्नानेकविंशतिसङ्ख्यया।
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके॥ 12-85-8(68129)
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा।
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्॥ 12-85-9(68130)
श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्।
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्॥ 12-85-10(68131)
वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम्।
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्॥ 12-85-11(68132)
ततः संप्रेषयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत्।
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा॥ 12-85-12(68133)
न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम्।
कार्ये खलु विपन्ने त्वां यो धर्मस्तं च पीडयेत्॥ 12-85-13(68134)
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव।
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे॥ 12-85-14(68135)
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः।
हार्दं भयं संभवति स्वर्गश्चस्य विरुध्यते॥ 12-85-15(68136)
अथ यो धर्मतः पाति राजाऽमात्योऽथवाऽऽत्मजः।
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ॥ 12-85-16(68137)
`स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह।'
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः।
आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः॥ 12-85-17(68138)
बलात्कृतानां वलिभिः कृपणं बहुजल्पताम्।
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्॥ 12-85-18(68139)
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्।
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः॥ 12-85-19(68140)
अपराधानुरूपं च दण्डं पापेषु धारयेत्।
वियोजयेद्धनैर्ऋद्धानधनानथ बन्धनैः॥ 12-85-20(68141)
विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः।
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्॥ 12-85-21(68142)
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्।
आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च॥ 12-85-22(68143)
सम्यक्प्रणयतो दण्डं भूमिपस्य विशांपते।
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः॥ 12-85-23(68144)
कामकारेण दण्डं तु यः कुर्यादविचक्षणः।
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति॥ 12-85-24(68145)
न परस्य प्रवादेन परेषां दण्डमर्पयेत्।
आगमानुगमं कृत्वा बध्नीयान्मोक्षयीत वा॥ 12-85-25(68146)
न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि।
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह॥ 12-85-26(68147)
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः॥ 12-85-27(68148)
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः।
यथोक्तवादीस्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः॥ 12-85-28(68149)
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता।
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः॥ 12-85-29(68150)
धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्।
मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता॥ 12-85-30(68151)
कुलीनः सत्वसंपन्नः शुक्लोऽमात्यः प्रशस्यते।
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्॥ 12-85-31(68152)
व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः।
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्॥ 12-85-32(68153)
विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित्।
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते॥ 12-85-33(68154)
एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ।
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते॥ ॥ 12-85-34(68155)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाशीतितमोऽध्यायः॥ 85॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-85-2 शुद्धेन पक्षपातहीनेन॥ 12-85-3 व्यवहरेत् निर्णयं कुर्यात्॥ 12-85-8 पूर्वके नित्ये॥ 12-85-9 अष्टाभिर्गुणैः शुश्रूषा श्रवणं ग्रहणं धारणमूहनमपोहनं विज्ञानं तत्त्वज्ञानं चेति तैः॥ 12-85-11 मृगयाक्षाः स्त्रियः पानमिति चतुर्भिः कासजैः। दण्डपातनं वाक्यारुष्यं अर्थदूषणमिति त्रिभिः क्रोधजैरिति सप्तभिः। अष्टानां ब्राह्मणचतुष्टयं शूद्रत्रयं सूतश्चेति तेषाम्॥ 12-85-12 ते त्वया द्रष्टव्याः॥ 12-85-13 गूढं न्यासापहारादिकं ते त्वया न ग्राह्यम्॥ 12-85-14 परिस्रवेत् मन्दं मन्दमन्यत्र गच्छेत्॥ 12-85-16 धर्ममूले राज्ये॥ 12-85-10 विशेषतस्तप्तपरशुग्रहणादिनां तत्परीक्ष्यमिति॥ 12-85-20 वियोजद्धवैर्लुब्धान्दरिद्रान्वधबन्धनैरिति ड. थ. पाठः॥ 12-85-22 चित्रोऽनेकधा। आदीपकस्य गृहादिदाहकत्य॥ 12-85-23 युक्तस्य यथाशास्त्रमवहितस्य॥ 12-85-29 प्रतील्पि द्वारपालः। शिरोरक्षः शिरांसीव शिरांसि दुर्गनगरादीनि प्रधानस्थानानि तद्रक्षणकर्ता॥ 12-85-31 एतैर्धर्मेत्यादिभिरमात्यगुणैः॥ 12-85-32 व्यूहः सेनाया निवेशनप्रकारविशेषः। यन्त्राणि धनुरादीनि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|